हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Dattatreya Hrudayam 1 – श्री दत्तात्रेय हृदयम्
पार्वत्युवाच ।
देव शङ्कर सर्वेश भक्तानामभयप्रद ।
विज्ञप्तिं शृणु मे शम्भो नराणां हितकारणम् ॥ १ ॥
ईश्वर उवाच ।
वद प्रिये महाभागे भक्तानुग्रहकारिणि ॥ २ ॥
पार्वत्युवाच ।
देव देवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ।
सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥ ३ ॥
ईश्वर उवाच ।
शृणु देवि महाभागे हृदयं परमाद्भुतम् ।
आदिनाथस्य दत्तस्य हृदयं सर्वकामदम् ॥ ४ ॥
अस्य श्रीदत्तात्रेय हृदय महामन्त्रस्य श्रीभगवान् ईश्वरो ऋषिः अनुष्टुप् छन्दः श्रीचित्स्वरूप दत्तात्रेयो देवता, आं बीजं ह्रीं शक्तिः, क्रों कीलकं श्रीदत्तात्रेय प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
द्रामित्यादि करहृदयादिन्यासः ॥
ध्यानम् –
श्रीभालचन्द्रशोभितकिरीटिनं
पुष्पहार मणियुक्तवक्षकम् ।
पीतवस्त्र मणिशोभित मध्यं
प्रणमाम्यनसूयोद्भवदत्तम् ॥
दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् ।
हरं शिवं महादेवं सर्वभूतोपकारकम् ॥ १ ॥
नारायणं महाविष्णुं सर्गस्थित्यन्तकारणम् ।
निराकारं च सर्वेशं कार्तवीर्यवरप्रदम् ॥ २ ॥
अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् ।
द्रां बीजवरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ ३ ॥
शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् ।
त्रिगुणं त्रिगुणातीतं त्रियामापतिमौलिकम् ॥ ४ ॥
रामं रमापतिं कृष्णं गोविन्दं पीतवाससम् ।
दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥ ५ ॥
भस्मगन्धादिलिप्ताङ्गं मायामुक्तं जगत्पतिम् ।
निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥ ६ ॥
ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् ।
किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ॥ ७ ॥
चन्द्रानुजं चन्द्रवक्त्रं रुद्रमिन्द्रादिवन्दितम् ।
अनसूयावक्त्रपद्मदिनेशममराधिपम् ॥ ८ ॥
देवदेव महायोगिन् अब्जासनादिवन्दित ।
नारायण विरूपाक्ष दत्तात्रेय नमोऽस्तु ते ॥ ९ ॥
अनन्त कमलाकान्त औदुम्बरस्थित प्रभो ।
निरञ्जन महायोगिन् दत्तात्रेय नमोऽस्तु ते ॥ १० ॥
महाबाहो मुनिमणे सर्वविद्याविशारद ।
स्थावरं जङ्गमानां च दत्तात्रेय नमोऽस्तु ते ॥ ११ ॥
ऐन्द्र्यां पातु महावीरो वह्न्यां प्रणवपूर्वकम् ।
याम्यां दत्तात्रेयो रक्षेत् नैरृत्यां भक्तवत्सलः ॥ १२ ॥ [दत्तात्रिजो]
प्रतीच्यां पातु योगीशो योगीनां हृदये स्थितः ।
अनिल्यां वरदः शम्भुः कौबेर्यां च जगत्प्रभुः ॥ १३ ॥
ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः ।
षडक्षरो महामन्त्रः पात्वधस्ताज्जगत्पतिः ॥ १४ ॥
एवं पङ्क्तिदशो रक्षेद्यमराजवरप्रदः ।
अकारादि क्षकारान्तं सदा रक्षेद्विभुः स्वयम् ॥ १५ ॥
दत्तं दत्तं पुनर्दत्तं यो वदेद्भक्तिसम्युतः ।
तस्य पापानि सर्वाणि क्षयं यान्ति न संशयः ॥ १६ ॥
य इदं पठते नित्यं हृदयं सर्वकामदम् ।
पिशाच शाकिनी भूत डाकिनी काकिनी तथा ॥ १७ ॥
ब्रह्मराक्षस वेताला क्षोटिङ्गा बालभूतकाः ।
गच्छन्ति पठनादेव नात्र कार्या विचारणा ॥ १८ ॥
अपवर्गप्रदं साक्षात् मनोरथप्रपूरकम् ।
एकवारं द्विवारं च त्रिवारं च पठेन्नरः ॥ १९ ॥
जन्ममृत्युं च दुःखं च सुखं प्राप्नोति भक्तिमान् ।
गोपनीयं प्रयत्नेन जननीजारवत् प्रिये ॥ २० ॥
न देयमिदं स्तोत्रं हृदयाख्यं च भामिनी ।
गुरुभक्ताय दातव्यं अन्यथा न प्रकाशयेत् ॥ २१ ॥
तव स्नेहाच्च कथितं भक्तिं ज्ञात्वा मया शुभे ।
दत्तात्रेयस्य कृपया स भवेद्दीर्घमायुकः ॥ २२ ॥
इति श्रीरुद्रयामले शिवपार्वतीसंवादे श्री दत्तात्रेय हृदयम् ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.